|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.65. अध्यायः 065
Mahabharata - Sabha Parva - Chapter Topics
कृष्णनिन्दाश्रवणेन शिशुपालजिघांसया उत्पततो भीमस्य भीष्मेण विनिवर्तनम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
शिशुपाल उवाच।
स मे बहुमतो राजा जरासन्धो महाबलः।
योऽनेन युद्धं नेयेष दाक्षोऽयमिति संयुगे॥ 2-65-1(13860)
केशवेन कृतं कर्म जरासन्धवधे तदा।
भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते॥ 2-65-2(13861)
उद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना।
दृष्टः प्रभावः कृष्णेन जरासन्धस्य भूपतेः॥ 2-65-3(13862)
येन धर्मात्मनाऽऽत्मानं ब्रह्मण्यमभिजानता।
प्रेषितं पाद्यमस्मै तद्दातुमग्रे दूरात्मने॥ 2-65-4(13863)
भुज्यतामिति तेनोक्ताः कृष्णबीमधनञ्जयाटः।
जरासन्धेन कौरव्य कृष्णेन विकृतं कृतम्॥ 2-65-5(13864)
यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे।
कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति॥ 2-65-6(13865)
इदं त्वाश्चर्यभूतं मे यदिभे पाण्डवास्त्वया।
अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति॥ 2-65-7(13866)
अथवा नैतदाश्चर्यं येषां त्वमसि भारत।
स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः॥ 2-65-8(13867)
वैशम्पायन उवाच॥ 2-65-9x(1489)
तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु।
चकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान्॥ 2-65-9(13868)
तथा पद्मप्रतीकाशे स्वभावायतविस्तृते।
भूयः क्रोधाभिताम्राक्षे रक्ते नेत्रे बभूवतुः॥ 2-65-10(13869)
त्रिशिखां भ्रकुटीं चास्य ददृशुः सर्वपार्थिवाः।
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव॥ 2-65-11(13870)
दन्तान्सन्दशतस्तस्य कोपाद्ददृशुराननम्।
युगान्ते सर्वभूतानि कालस्येव जिघत्सतः॥ 2-65-12(13871)
उत्पतन्तं तु वेगेन जग्राहैनं मनस्विन्।
भीष्म एव महाबाहुर्महासेनमिवेश्वरः॥ 2-65-13(13872)
तस्व भीमस्य भीष्मेण वार्यमाणस्य भारत।
गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः॥ 2-65-14(13873)
नातिचक्राम भीष्मस्य स हि वाक्यमरिन्दमः।
समुद्वृत्तो घनापाये वेलामिव महोदधिः॥ 2-65-15(13874)
शिशुपालस्तु सङ्क्रुद्धे भीमसेने जनाधिप।
नाकम्पत तदा वीरः पौरुषे व्यवस्थितः॥ 2-65-16(13875)
उत्पतन्तं तु वेगेन पुनः पुनररिन्दमः।
न स तं चिन्तयामास सिंहः क्रुद्धो मृगं यथा॥ 2-65-17(13876)
प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान्।
भीमसेनमभिक्रुद्धं दृष्ट्वा भीमपराक्रमम्॥ 2-65-18(13877)
मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपः।
मत्प्रभावविनिर्दग्धं पतङ्गमिव वह्निना॥ 2-65-19(13878)
ततश्चेदिपतेर्वाक्यं श्रुत्वा तत्कुरुसत्तमः।
भीमसेनमुवाचेदं भीष्मे मतिमतां वरः॥ 2-65-20(13879)
`नैषा चेदिपतेर्बुद्धिर्यत्त्वामाह्वयतेऽच्युतम्।
भीमसेन महाबाहो कृष्णस्यैव विनिश्चयः'॥ ॥ 2-65-21(13880)
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि पञ्चषष्टितमोऽध्यायः॥65॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-65-13 महासेन कार्तिकयम्॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|